|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.69. अध्यायः 069
Mahabharata - Bhishma Parva - Chapter Topics
कुरुपाण्डवयोर्मकरश्येनव्यूहरचनापूर्वकं युद्धारम्भः ॥ 1 ॥
Mahabharata - Bhishma Parva - Chapter Text
सञ्जय उवाच। 6-69-0x(4144)(41741)
व्युषितायां तु शर्वर्यामुदिते च दिवाकरे।
उभे सेने महाराज युद्धायैव समीयतुः ॥ 6-69-1(41742)
अभ्यधावन्त संक्रुद्धाः परस्परजिगीषवः ।
ते सर्वे सहिता युद्धे समालोक्य परस्परम् ॥ 6-69-2(41743)
पाण्डवा धार्तराष्ट्राश्च राजन्दर्मन्त्रिते तव।
व्यूहौ च व्यूह्य संरब्धाः संप्रहृष्टाः प्रहारिणः ॥ 6-69-3(41744)
अरक्षन्मकरव्यूहं भीष्मो राजन्समन्ततः ।
तथैव पाण्डवा राजन्नरक्षन्व्यूहमात्मनः ॥ 6-69-4(41745)
`अजातशत्रुः शत्रूणां मनांसि समकम्पयत्।'
श्येनवद्व्यूह्य तं व्यूहं धौम्यस्य वचनात्स्वयम् ॥ 6-69-5(41746)
स हि तस्य सुविज्ञात अग्निचित्येषु भारत।
मकरस्तु महाव्यूहस्तव पुत्रस्य धीमतः ॥ 6-69-6(41747)
स्वयं सर्वेण सैन्येन द्रोणेनानुमतस्तदा ।
यथाव्यूहं शान्तनवः सोऽन्ववर्तत तत्पुनः ॥ 6-69-7(41748)
स निर्ययौ महाराज पिता देवव्रतस्तव ।
महता रथवंशेन संवृतो रथिनां वरः ॥ 6-69-8(41749)
इतरेतरमन्वीयुर्यथाभागमवस्थिताः ।
रथिनः पत्तयश्चैव दन्तिनः सादिनस्तथा ॥ 6-69-9(41750)
तान्दृष्ट्वाऽभ्युद्यतान्सङ्ख्ये पाण्डवा हि यशस्विनः ।
श्येनव्यूहेन संव्यूह्य समनह्यन्त संयुगे ॥ 6-69-10(41751)
अशोभत मुखे तस्य भीमसेनो महाबलः ।
नेत्रे शिखण्डी दुर्धर्षो धृष्टद्युम्नश्च पार्षतः ॥ 6-69-11(41752)
शीर्षे तस्याभवद्वीरः सात्यकिः सत्यविक्रमः ।
विधुन्वन्गाण्डिवं पार्थो ग्रीवायामभवत्तदा ॥ 6-69-12(41753)
अक्षौहिण्या समं तत्र वामपक्षोऽभवत्तदा ।
महात्मा द्रुपदः श्रीमान्सह पुत्रेण संयुगे ॥ 6-69-13(41754)
दक्षिणश्चाभवत्पक्षः कैकेयोऽक्षौहिणीपतिः ।
पृष्ठतो द्रौपदेयाश्च सौभद्रश्चापि वीर्यवान् ॥ 6-69-14(41755)
पृष्ठे समभवच्छ्रीमान्स्वयं राजा युधिष्ठिरःक ।
भ्रातृभ्यां सहितो वीरो यमाभ्यां चारुविक्रमः ॥ 6-69-15(41756)
प्रविश्य तु रणे भीमो मकरं मुखतस्तदा।
भीष्ममासाद्य संग्रामे च्छादयामास सायकैः ॥ 6-69-16(41757)
ततो भीष्मो महास्राणि पातयामास भारत।
मोहयन्पाण्डुपुत्राणां व्यूढं सैन्यं महाहवे ॥ 6-69-17(41758)
संमुह्यति तदा सैन्ये त्वरमाणो धनंजयः ।
भीष्मं शरसहस्रेण विव्याध रणमूर्धनि ॥ 6-69-18(41759)
प्रतिसंवार्य चास्राणि भीष्ममुक्तानि संयुगे।
स्वेनानीकेन हृष्टेन युद्धाय समुपस्थितः ॥ 6-69-19(41760)
ततो दुर्योधनो राजा भारज्वाजमभाषत ।
पूर्वं दृष्ट्वा वधं घोरं बलस्य बलिनां वरः ॥ 6-69-20(41761)
भ्रातॄणां च वधं युद्धे स्मरमाणो महारथः।
आचार्यः सततं हि त्वं हितकामो ममानघ ॥ 6-69-21(41762)
वयं हि त्वां समाश्रित्य भीष्मं चैव पितामहम् ।
देवानपि रणे जेतुं प्रार्थयामो न संशयः ॥ 6-69-22(41763)
किमु पाण्डुसुताकन्युद्धे हीनवीर्यपराक्रमान् ।
स तथा कुरु भद्रं ते यथा वध्यन्ति पाण्डवाः ॥ 6-69-23(41764)
एवमुक्तस्ततो द्रोणस्तव पुत्रेण मारिष ।
तत्र संप्रेक्ष्य राजनं संक्रुद्ध इव निश्चसन् ॥ 6-69-24(41765)
बालिशस्त्वं न जानीषे पाण्डवानां पराक्रमम् ।
न शक्या हि यथा जेतुं पाण्डवा हि महाबलाः ॥ 6-69-25(41766)
यथाबलं यथावीर्यं कर्म कुर्यामहं हि ते।
इत्युक्तवा ते सुतं राजन्नभ्यपद्यत वाहिनीम् ।
अभिनत्पाण्डवानीकं प्रेक्षमाणस्य सात्यकेः ॥ 6-69-26(41767)
सात्यकिस्तु ततो द्रौणं वारयामात भारत।
तयोः प्रववृते युद्धं घोररूपं भयावहम् ॥ 6-69-27(41768)
शैनेयं तु रणे क्रुद्धो भारद्वाजः प्रतापावान्।
अविध्यन्निशितैर्बाणैर्जत्रुदेशे हसन्निव ॥ 6-69-28(41769)
भीमसेनस्ततः क्रुद्धो भारद्वाजमविध्यत ।
संरक्षन्सात्यकिं राजन्द्रोणाच्छस्त्रभृतां वरात् ॥ 6-69-29(41770)
ततो द्रोणश्च भीष्मश्च तथा शल्यश्च मारिष।
भीमसेनं रणे क्रुद्धाश्छादयांचक्रिरे शरैः ॥ 6-69-30(41771)
तत्राभिमन्युः संक्रुद्धो द्रौपदेयाश्च मारिष ।
विव्यधुर्निशितैर्बैणैः सर्वांस्तानुद्यतायुधान् ॥ 6-69-31(41772)
द्रोणभीष्मौ तु संक्रुद्धावापतन्तौ महाबलौ ।
प्रत्युद्ययौ शिखण्डी तु महेष्वासो महाहवे ॥ 6-69-32(41773)
प्रगृह्य बलवद्वीरो धनुर्जलदनिःश्वनम् ।
अभ्यवर्षच्छरैस्तूर्णं छादयानो दिवाकरम् ॥ 6-69-33(41774)
शिखण्डिनं समासाद्य भरतानां पितामहः ।
अवर्जयत संग्रामं स्त्रीत्वं तस्यानुसंस्मरन् ॥ 6-69-34(41775)
ततो द्रोणो महाराज अभ्यद्रवत तं रणे।
रक्षमाणस्तदा भीष्मं तव पुत्रेण चोदितः ॥ 6-69-35(41776)
शिखण्डी तु समासाद्य द्रोणं शस्त्रभृतां वरम्।
अवर्जयत संत्रस्तो युगान्ताग्निमिवोल्बणम् ॥ 6-69-36(41777)
ततो बलेन महता पुत्रस्तव विशांपते ।
जुगोप भीष्ममासाद्य प्रार्थयानो महद्यशः ॥ 6-69-37(41778)
तथैव पाण्डवा राजन्पुरुस्कृत्य धनञ्जयम्।
भीष्ममेवाभ्यवर्तन्त जये कृत्वा दृढां मतिम् ॥ 6-69-38(41779)
तद्युद्धमभवद्धोरं देवानां दानवैरिव।
जयमाकाङ्क्षतां सङ्क्ष्ये यशश्च सुमहाद्भुतम् ॥ ॥ 6-69-39(41780)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि पञ्चमदिवसयुद्धे एकोनसप्ततितमोऽध्यायः ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|